"ॐ तत्पुरुषाय विद्ध्महे महादेवाय धिमाही तन्नो रूद्र: प्रचोदयात!!!"

Aug 4, 2015

●|●| बिल्वाष्टक स्तोत्रम् |●|●



●|●| बिल्वाष्टक स्तोत्रम् |●|●


******************************

●त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम्।
त्रिजन्मपापसंहार बिल्वपत्रं शिवार्पणम्॥१॥
●त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रै: कोमलै: शुभै:।
शिवपूजां करिष्यामि बिल्वपत्रं शिवार्पणम्॥२॥
●अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो बिल्वपत्रं शिवार्पणम् ॥३॥
●शालग्रामशिलामेकां विप्राणां जातु अर्पयेत् ।
सोमयज्ञ महापुण्यं बिल्वपत्रं शिवार्पणम् ॥४॥
●दन्तिकोटिसहस्राणि वाजपेयशतानि च ।
कोटिकन्यामहादानं बिल्वपत्रं शिवार्पणम् ॥५॥
●लक्ष्म्या: स्तनत उत्पन्नं महादेवस्य च प्रियम्।
बिल्ववृक्षं प्रयच्छामि बिल्वपत्रं शिवार्पणम् ॥६॥
●दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं बिल्वपत्रं शिवार्पणम् ॥७॥
●मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रत: शिवरूपाय बिल्वपत्रं शिवार्पणम् ॥८॥
●बिल्वाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ ।
सर्वपापविनिर्मुक्त: शिवलोकमवाप्नुयात् ॥९॥
******************** 
🍃
हरि ॐ नम: शिवाय 
🍃
जय जय भोले नाथ की जय हो

No comments:

Comment Form is loading comments...
 

Total Pageviews